॥ महावाक्यध्यानम् (हृदि) ॥
अग्नीषोमगुरुद्वयं प्रणवकं बिन्दुत्रिनेत्रोज्ज्वलं,
भास्वद्रूपमुखं शिवाङ्घ्रियुगलं पार्श्वस्थसूर्यानलम् ।
उद्यद्भास्करकोटिकोटिसदृशं हंसं जगद्व्यापिनं,
शब्दब्रह्ममयं हृदम्बुजघटे नीडे सदा संस्मरेत् ॥
॥ आत्मध्यानम् (कण्ठे) ॥
प्रत्यङ्गेषु निविष्टमङ्गरहितं व्याप्तं जगत्कारणम्,
सूक्ष्मात्सूक्ष्मतरं गुणागुणमयं वैराग्यसम्मिश्रितम् ।
मूर्तामूर्तममोयमूर्तिममलं ज्योतिः प्रदीप्तोज्ज्वलं,
साक्षात् षोडशवर्णपत्रकमले जीवं परं चिन्तयेत् ॥
॥ गुरुध्यानम् (ललाटे) ॥
हक्षाभ्यां परिक्लृप्तपत्ररचिते पद्मे जगत्कारणं,
विश्वोत्तीर्णमनेकदेहनिलयं विद्युद्विलासं परम् ।
तत्तद्योग्यतया स्वदेशिकतनुं सम्प्राप्तरूपं परं,
प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेत्परं दैवतम् ॥
॥ ब्रह्मध्यानम् (ब्रह्मरन्ध्रे) ॥
विश्वस्यादिमनादिमेकममलं नित्यं परं निष्कलं,
नित्योद्बुद्धसहस्रपत्रकमले आद्यक्षरैर्मण्डिते ।
नित्यानन्दमयं समस्तमुनिभिः संवित्स्फुरच्चान्तरं,
स्मृत्वात्मानमनेकविश्वनिलयं स्वच्छं जगत्सर्वतः ॥
*-*-*